अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
|
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
|
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
|
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
|
गुञ्जा मधुरा बाला मधुरा यमुना मधुरा वीची मधुरा ।
|
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
|
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
|
इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं। |